कंटअ—विलिहिअ—पीणुण्णअ—थणि उत्तम्म एत्ताहे॥ ८३॥
(उरःपीडितवृतिकारवेल्लीफलान्युच्चिनोपि दयितवत्सले।
कण्टक—विलिखित—पीनोन्नत—स्तनि उत्ताम्येदानीम्॥)
कस्स वा ण होइ रोसो दट्ठूण पिआएँ सव्वणं अहरं।
सभमरपउमग्घाइरि वारिअवामे सहसु एण्हिं॥ ८४॥
(कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम्।
सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम्॥)
अविनयनिगूहनं यथा—(गास. ९५९वे.)
उच्चिणसु पडिअकुसुमं मा धुण सेहालिअं हलिअसोण्हे।