कामन्दकी— इदं गम्यते, वत्से, अनुजानीहि माम्।
लवङ्गिका— (जनान्तिकं) सहि मालदि, संपदं भअवदीए सआसादो तस्स महाणुहाअस्स उग्गमं जाणीमो। (सखि मालति, साम्प्रतं भगवत्या— स्सकाशात् तस्य महानुभावस्य उद्गमं जानीमः।)
मालती— (जनान्तिकं) अत्थि मे कोऊहलं। (अस्ति मे कौतूहलम्।)
लवङ्गिका— (प्रकाशं) (मामा. २.८१ श्लोकात् परम्) को एसो माहवो णाम, जस्सिं भअवदी एव्वं सिणेहगरुअं अत्ताणं धारेदि? (क एष माधवो नाम यस्मिन् भगवती एवं स्नेहगुरुकमात्मानं धारयति।)
कामन्दकी— अप्रस्ताविकी महत्येषा कथा।
लवङ्गिका— तह वि आचक्खिअ भअवदी पसादं करेदु (तथापि आख्याय भगवती प्रसादं करोतु)।
कामन्दकी— 'श्रूयताम् अस्ति' इत्यत आरभ्य 'स एष माधवो नामे'—ति मालती श्रावयति।
लवङ्गिका— कुदो महोहहिं वज्झिअ पारिआअस्स उद्गमो (कुतो महोदधिं वर्जयित्वा परिजातस्य उद्गम़) इत्येवमादि। (मामा. २.११तःपरम्)
बहिःसर्वाकारप्रवणरमणीयं व्यवहरन् पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति।