४. (पूर्ववृत्तान्तः) पूरा चकमे दुष्यन्तं शकुन्तला, रुक्मिणी कंसव्दिषम्, उषा अनिरुद्धम्, इत्येवमादि बुद्धिकल्पितमुदाहरणम्। (कासू. ५.४)।
५. कविकथा यथा— महाश्वेता पुण्डरीकं, चन्द्रपीडं कादम्बरी, गुरुभिरप्रदत्ता प्रतिपत्तिमापेदे। वासवदत्ता च सञ्जयाय रार्ज्ञे, मालती राजसुहृदे नन्दनाय पित्रा प्रदत्तमात्मानमुदयनाय, माधवाय च प्रायच्छत्। (मामा. २.७/८)
६. परदारप्रयोजनमितिहासादिःपारदारिकं यथा— अस्त्यहल्येति गौतममहर्षेः प्रियकलत्रं, तामिन्द्रश्चकमे। ततस्तम् 'अहल्यायै जार' इति निर्जानन्ति। अस्ति तारेति वाचस्पते: सुरपुरोधसः धर्मपत्नी। सा प्रजापतिमतिचरतः पत्युरमर्षात् कियन्तं कालं सोमेन सह उषित्वा बुधाभिधानमात्मजं सुषुवे। एवमञ्जना प्रभञ्जनेन, कृत्तिकापरिषत् कृशानुना हनूमन्तं कार्तिकेयं चेति।
विश्वस्य च 'कथमेवंविधः पतिरिति पत्यावनुशयं ग्राहयित्वा, न तव सुभगे दास्यमपि युक्तः कर्तुमिति ब्रूयात्' (कासू. ५.४) इत्युपावर्तनम्।
तत्रोदाहरणच्छाया— (मामा. २.६.)
इदमिह मदनस्य जैत्रमस्त्रं सहजविलासनिबन्धनं शरीरम्।
अनुचितवरसम्प्रयोगशोच्यं विफलगुणतिशयं भविष्यतीति॥ ९६॥
राज्ञः प्रियाय सुहृदे सचिवाय कार्याद्दत्वात्मजां भवतु निर्वृतिमानमात्यः।