देशकालेङ्गिताकारभावोपायाभियोगवित् ।
नारी नरेषु सर्वेषु नरो नारीषु सिद्धयति॥ ९०॥
अविष्कृतोऽयमभियोगविधिर्यथावदातः परं पुनरमी रमणाप्तिपूर्वाः।
पूर्वानुरागतरुपल्लवभूतदूतसम्प्रेषणप्रभृतयः प्रकटीक्रियन्ते॥ ९१॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे अभियोगविधिप्रकाशो नाम
॥ सप्तविंशः प्रकाशः॥ २७॥
अस्मिन् प्राकृतभोजे महाब्धिकल्पेऽनुभावपैशुनिकाः।
प्रवहन्ति हन्त नद्यो निगूढभावा ध्वनिप्रेष्ठाः॥