अपि च—'मालती, मालतीति मोदते भगवती कामन्दकी। मालत्या अपि स्नेहदर्शनात् सुश्लष्टमेतत्' (मामा. १.३५/३६)
किञ्च— 'सहि दिटिठअा दे अणुरुवः अहिलासो। साअरं उज्झिअ महाणई कहिं वा ओदरड? किं अण्णदो चरिदव्वमेदि? का वा दाणिं सहआरमंतरेण अदिमुत्तलअं पल्लविदं सहेदि? (सखि! दिष्टया तेऽनुरूपोऽभिलाषः। सागरमुज्झित्वा महानदी (कुत्र वावतरति)?। किमन्यतः चरितव्यमेति(?)को वा इदानीं सहकारमन्तरेणातिमुक्तलतां (पल्लवितां सहते)? (शाकु. ३.१०/११) ॰॰॰ ण सहेज्ज णहअंणा ॰॰॰ (न सहिस्यते नखशङ्का) तुह्मारिसीओ पक्खवाइणीओ होति। सहि मालदीए वि रमणीअअणुराअ एव्व रमणिज्जो इमस्सिं महाणुहावे अणुराअप्पवादो त्ति। (युष्मादृश्यः पक्षपातिन्यः भवन्ति सखि! मालत्या अपि रमणीयानुराग एव रामणीयेऽस्मिन् महानुभावेऽनुरागप्रवादः) इति॥ १००॥'
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम्।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्॥ १०१॥ इति॥
चित्तानुवर्तनाच्च प्रसृतसद्भावायां तस्यां कार्यशरीरमित्थं वदेत् 'श्रृणु विचित्रमिदं सुभगे, त्वं (त्वां) किल संदृश्यामुत्र असावित्थं गोत्रपुत्रो नायकः उन्मादमनुभवति। द्वितीये अहनि वाचि वक्त्रे दृष्टयां च प्रसादमस्या लक्षयित्वा पुनरपि कथां प्रवर्तयेत् (कामसू. ५.४) नायकस्य सौभाग्यं श्लाघनीयतया प्रच्छन्नत्सम्प्रयोगं भूतमभूतं वा कीर्तयेत् (कामसू. ५.४)। श्रृण्वतां वा अहल्याऽविमारकशाकुन्तलादीन्यन्यानि च सोत्कण्ठानि कथतेत् (कामसू. ५.४)। तदेवं 'प्रकृत्या सुकुमारः (कुमारः) कदाचिदन्यत्र अपरिक्लिष्टपूर्वस्तपस्वी, ततोऽधुना शक्यमनेन मरणमप्यनुभवितुम्।' इति च वर्णयेत्।
इङ्गिताकारांश्च लक्षयेदिति कार्योपन्यासशुद्धिः (कासू. ५.४)।
कमन्दकी— (मालत्याश्चिबुकमुन्नमय्य) 'श्रृणु विचित्रमिदं सुभगे, अस्ति तावद् एकदा प्रसङ्गतः कथित एव मया माधवाभिधानः कुमारः, यस्त्वमिव मामकीन्स्य मनसः द्वितीयं बन्धनम् (मामा. ३.८)