१. सख्या देशावधानं यथा—(मामा. ४.१०)
'अयमसौ महानद्योर्व्यतिकरः। स एषः—
जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिः स्नानमात्रोद्गताभिः।
रुचिरकनककुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः॥ १२६॥
२. कालावधानं यथा—(मामा. १.२०)
गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किन्वेतत् स्यात्किमन्यदतोऽथवा।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम्॥ १२७॥
३. कार्यावधानं यथा—(मामा. १.४२)
अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः।
अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः॥ १२८॥