ग्लपयति यथा शाशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥ १२३॥
१४. नायकस्य स्वानुभूतं यथा—(शाकु. ३.१०)
इदमशिशिरैरन्तस्तापाद् विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रवर्तिभिरश्रुभिः।
अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते॥ १२४॥
१५. अन्येन दृष्टं यथा—(मामा. ५.५)
कुवलयदलश्यामोऽप्यङ्गं दधत् परिधूसरं ललितविकटन्यासः श्रीमन्मृगाङ्कनिभाननः।
रहसि विनयं वामो यस्य प्रकाशितसाहसः प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः॥ १२५॥
सखीदूतीनायकानां देशकालकार्यपात्रभेदाद् अवधानप्रपञ्चः। तत्र —