'कोपो यत्र भ्रुकुटिघटना'॥९५॥
६. विनापि कारणं विनश्वरो भङ्गुरः स यथा—(अमरु. २८)
भ्रूभेदे रचितेऽपि द्ृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते।
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते द्ष्टे निर्वहणं स वक्ष्यति/भविष्यति कथं मानस्य तस्मिन् जने॥ ९६॥
७. उत्पत्तेराप्रकर्षमविच्छिन्नैकरूपसन्तानः समः, स यथा—(सक. ३.१२७)
एंतो वि ण सच्चविओ गोसे पसरंतपल्लवारुणच्छाओ।
मज्जणतंबेसु मओ तह मअलोअणेसु अमरिसो॥ ९७॥
(आगच्छन्नपि न दृष्टः यथा मे प्रसरत्पल्लवारुणरागः।
मज्जनताम्रयोर्मदस्तथा मदलोचनयोरमर्षः॥)