भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 421 to 430 of 1822 verses
अथैतेषां विशेषाश्चतुर्विंशतिः — सहजः, आहार्यः, यौवनजः, विस्रम्भजः, स्थिरः, भङ्गुरः, समः, विषमः, प्रकाशः, गूढः, चण्डः, मृदुः, उद्भटः, मसृणः, ऋजुः, वक्रः, साध्यः, कृच्छ्रसाध्यः, याप्यः, असाध्यः, पुराणः, जीर्णः, पुनर्नवः, नव इति। तेषु —

१. सहजानुरागजन्मा सहजो यथा—(गास. ९६७ वे.)

केलिगोत्तक्खलणे वरस्स पफ्पुल्लइं दिहिं देइ।

बहुवासकवासगृहे वहुए बाहोल्लिआ दिट्ठी॥ ९१॥

(केलीगोत्रस्खलने वरस्य प्रफुल्लां धृतिं ददाति।

बहुवासकवासगृहे वध्वाः बाष्पार्द्रिता द्‍ृष्टिः॥)

२. आहार्यानुरागजन्मा आहार्यो यथा—(गास. ९४१वे.)

अलिअकुविअं पि कअमंतुअं व मं जेसु सुहअ अणुणेंतो।

ताण दिअहाण हरणे रुआमि, ण उणो अहं कुविआ॥ ९२॥

(अलीककुपितामपि कृतमन्तुकां व मां येषु सुभग! अनुनयन्।

Showing 421 to 430 of 1822 verses