चिन्तयसि स्तनभरायासितस्य मध्यस्यापि न भङ्गम्॥)
२४. अपराधतः प्रियाभिभर्त्सनताडनादिकरणं प्रणयकलहः यथा—(गास. ९४६वे.)
हुं णिल्लज्ज समोसर तं चिअ अणुणेसु जाए दे वअणे।
पाअंगुट्ठालत्तअरसेण तिलअं विणिम्मविअं॥ ८९॥
(हुं निर्जज्ज समपसर तामेवानुनय यया ते वदने।
पादाङ्गुष्ठालक्तकरसेन तिलकं विनिर्मितम्॥)
पादे मूर्धनि ताम्रतामुपगते कर्णोत्पले चूर्णिते छिन्ने हारलतागुणे करतले सम्पातजातव्रणे।
अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः चेतसा वाञ्छन्ती मुहुरेणशाबनयना पर्याकुलं रोदिति॥ ९०॥