वसने परिधूसरे वसाना नियमक्षामतनुः कृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथा बिभर्ति॥ ११२॥
४. न स्वकीये न परकीये यथा—
गतवति निषेधेश्वरे विबुद्धा वनभुवि भीमसुता भ्रमन्मृगीव।
मृगयितुमनुसानु साऽनुगन्तुं दिशि दिशि दत्तविलोलदीर्घदृष्टिः॥ ११३॥
५. साधारणो यथा—(गास. ८३९ वे.)
जह दिअहविरामो णव—सिरीस—गंदुद्धराणिलग्घविओ।
पहिअ—घरणीअ ण तहा तवेइ तिव्वो वि मज्झण्हो॥ ११४॥
(यथा दिवसविरोमो नवशिरीषगन्धोद्धुरानिलार्घितः।