स्नातायाः स्वजनोत्सवे विधिरिति स्नानीयशून्यैर्जलै— र्बिभ्रत्या गुरुगौरवेण गुरुणी रक्ते वृथा वाससी।
पत्युर्मङ्गलमिच्छता परिजनेनायोजिते मण्डने तन्व्या लोचनवारिता कथमपि स्वच्छन्दमागच्छति॥ ११७॥
९. सामान्यवद् यथा—(गास. ८७०वे.)
अब्भर(तंबर)सूणाइ णिरंजणाइ वइरिक्करुण्णपुसिआइं।
विरहुक्कंठं कुलवालिआण साहेंति अच्छीइं॥ ११८॥
(अभ्र/ताम्रांशूनि निरञ्जनानि प्रतिरिक्तरुदितमृष्टानि।
विरहोत्कण्ठां कुलपालिकानां कथयन्ति अक्षिणि॥)
१०. विशेषवद् यथा—(गास. ८३८वे.)
उक्कंठाणिच्छाआ सव्वं चिअ परिअणं रुणावेइ।