उपमानमभूद् विलासिनां१ करणं यत्तव कान्तिमत्तया।
तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥ १०८॥
१२. दुःखव्याहारो यथा—(कुसं. ४.२७)
इति चैनमुवाच दुःखिता सुहृदः! पश्य वसन्त! किं स्थितम्।
यदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम्॥ १०९॥
१. सिनाम् = सिनीनाम् जो.रा.। अत्र तृतीयपादविसंवादः।
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम्।
तदिदं विषहिष्यते कथं वद वामोरु! चिताधिरोहणम्॥ ११०॥
१३. दुःखातिवाहनं यथा—(रघु. ८.४१)