करमार्गोत्थित—शोणित—विवर्णोन्नतपयोधरा जनकसुता॥)
तो जंपिउं पउत्ता पुणो वि अत्थक्क उट्ठिअ—समूससिआ।
उरघोलिरवेणीमुहथणलग्गंगुट्ठमहिरआ जणअसुआ॥ १०४॥
(ततः जल्पितुं प्रवृत्ता पुनरपि अकस्माद् उत्थितसमुच्छ्वसिता।
उरोघूर्णनशील—वेणीमुखस्तनलग्नाङ्गुष्ठमहीरजाः जनकसुता॥)
१०. दुःखावसादो यथा—(सेब. ११.७१)
आवेअसमुक्खित्तं तो से खेआगमोसिअंतोवत्तं।
पडिअं णिअउच्छंगे अप्पत्तं चिअ पओहरे करजुअलम्॥ १०५॥
(आवेगसमुक्षिप्तं ततः तस्याः खेदागमावसीददपवृत्तम्।