पतितं निजोत्सङ्गे अप्राप्तम् एव पयोधरौ करयुगलम्॥)
तीए णव—पल्लवेण व पहराअंब—विहलेण हत्थेण मुहं।
परिमज्जिउं ण चइअं एक्ककओल—मिलिआलअं कह वि कअं॥ १०६॥
(तया नवपल्लवेन इव प्रहाराताम्रविह्वलेन हस्तेन मुखम्।
परिमार्ष्टुं न शक्तं एककपोलमिलितालकं कथमपि कृतम्॥)
११. दुःखसन्दीपनं यथा—(कुसं. ४.२६)
तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते॥ १०७॥