हेलोल्लोलक्षुभितकरुणो जृम्भणस्तम्भनार्थं यो यो यत् तत् कथमपि समाधीयते तं तमन्तः।
हित्वा हित्वा प्रसरति बलात् कोऽपि चेतोविकार— स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः॥ १०१॥
तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद।
प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमनत्वरया स मेने॥ १०२॥
९. दुःखनिर्यातनं यथा—(सेब. ११.७३)
परिदेविउं पउत्ता तो णिअअ—सरीर—मुक्क—राहव—दुक्खा।
करमग्गुट्ठिअ—सोणिअ—विवण्ण—उण्णअ—पओहरा जणअसुआ॥ १०३॥
(परिदेविउ प्रवृत्ता ततः निजकशरीरमुक्तराघवदुःखा।