१. स्वकीयदेशे यथा—(मेघ. ८२)
तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्।
गाढोत्कण्ठा—गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वाऽन्यरूपाम्॥ ११०॥
२. परकीयदेशे यथा—(सेब. ११.४८)
हत्थेण वाहगरुइअ—दूरपलंवालओ—त्थएण वहंतिं।
पिअ—पेसिअंगुलीअ—अ—मणि—पअडेक्कपासं व मुहं॥ १११॥
(हस्तेन बाष्पगुरुकं दूरप्रलम्बालकावस्तृतेन वहन्तीम्।
प्रिय—प्रोषिताङ्गुलीयकमणिप्रभाप्रकटैकपार्श्वमिव मुकम्॥)
३. स्वकीयपरकीये यथा—(शाकु. ७.२१)