३. अङ्गणतो यथा—(अमरु. ७९)
यास्यामीति समुद्यतस्य वदतो विस्त्रब्धमाकर्णितं गच्छन् दूरमुदीक्षितो मुहुरसौ व्यावृत्य पश्यन्नपि।
कारुण्य पुनरागतोऽस्मि भवने प्राणास्त एव स्थिताः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि॥ १०७॥
अम्मणुअंचेवि जाहि हुआ हेट्ठि बइट्ठ।
विरहे पुच्छइ जाहि कहिं बहुअहिं कालहं दिट्ठ॥ १०८॥
प्रियानुगमतो गृहं प्रतिनिवृत्त्य मुग्धेक्षणा निरीक्ष्य सरसीमपि स्फुटितपङ्कजामोदिनीम्।
व्रजन्तमपि दूरतः समनुकूलवाताध्वना निवृत्तमुखसीरिकावलितकण्ठमालोकते॥ १०९॥