दीर्घमपि समुच्छ्वसितं दुःख्यते केवलं वेपनशीले अधरोष्टे॥)
अवरिप्फुडणीसासा तो सा मोहविरमे वि णीसहपडिआ।
बढ्ढंत—बाह—गुरुइअ—दुक्ख —समुव्वूढ—तारअं उम्मिल्ला॥ ९६॥
(अपरिस्फुटनिःश्वासा ततः सा मोहविरमे अपि निस्सहपतिता।
वर्धमान—बाष्प—गुरूकृत—दुःख—समुद्व्यूढ—तारकं उन्मीलिता॥)
६. मूर्च्छाविच्छेदो यथा—(कुसं. ४.१)
अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम्॥ ९७॥