विरलमिलिताक्षिपत्रं मूर्च्छाह्रियमाणतारकं तस्या मुखम्॥)
विअलिअविओअविअणं तक्खणपब्भट्ठराममरणाआसं।
जणअतणआइ णवरं लद्धं मुच्छाणिमीलअच्छीए मुसुहं॥ ९४॥
(विगलितवियोगवेदनं तत्क्षणप्रभ्रष्टराममरणायासम्।
जनकतनयया केवलं लब्धं मूर्च्छानिमीलिताक्ष्या सुखम्॥)
५. चेतनाप्रत्यागमो यथा—(सेब. ११.५८)
थणपरिणाहत्थइए तीसे हिअअम्मि पअणुअं पि ण दिट्ठं।
दीहं पि समूससिअं दुक्खिज्जइ णवर वेविरे अहरोट्ठे॥ ९५॥
(स्तनपरिणाहस्थगिते तस्याः हृदये प्रतनुकमपि न द्ृष्टम्।