ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम॥ ८९॥
तीव्राभिषङ्गप्रभवेण मन्युं मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव॥ ९०॥
३. चेष्टासम्मीलनं यथा—(सेब. ११.६४)
तह णिमिअ च्चिंअ दिठ्ठी मुक्ककओलविहुरो उरच्चिअ करे।
गअजीविअणिच्चेठ्ठा णवरि सा महिअलं थणहरेण गआ॥ ९१॥
(तथा निर्मिता एव द्ृष्टिः मुक्तकपोलविधुरः उरसि एव करौ।
गतजीवितनिश्चेष्टा केवलं सा महीतलं स्तनभरेण गता॥)