भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 331 to 340 of 915 verses
(न कृतो बाष्पविमोक्षो निर्वर्णयितु मपि न पतितं रामशिरः।

केवलं प्रतिपन्नमोहा गतजीवितनिस्सहा मह्यां निषण्णा॥)

१. 'चेष्टा.....तत्र' — इति जो. (पृ. ११२०), रा. (पृ. १६३७) न पठतः। प्रतिनिर्देशमनुसृत्य त्वस्माभिरिदमयोजि।

(२. करुणस्य विभावादयः)

अथास्यैव विभावानुभावव्यभिचारिसंयोगः प्रयोगतोऽभिधीयते। तत्रालम्बन— विभावोद्दीपनविभावयोस्तादर्थ्यादर्थाद् व्यभिचारिणामपि अभिन्नार्थत्वादनुभावैरेव सर्वसङ्ग्रह इति, तथैवोदाह्रियते, उदाहरिष्यन्ते च। ते च व्यसनाभिघातादयो मुखप्रतिमुखगर्भविमर्शनिर्वहणेषु प्रत्येकं षोडशेत्येवमशीतिर्यथाक्रमं प्रतिपाद्यन्ते।

तत्र १. व्यसनाभिघातः, २. अभिषङ्गाभिभवः, ३. चेष्टासम्मीलनं, ४. मोहसमावेशः, ५. चेतनाप्रत्यागमः, ६. मूर्च्छाविच्छेदः, ७. शोकप्रत्यग्रता, ८. शोकावेगः, ९. दुःखनिर्यातनं, १०. दुःखावसादः, ११. दुःखसन्दीपनं, १२. दुःखव्याहारः, १३. दुःखातिवाहनं, १४. बाष्पमोक्षः, १५. अवस्थानुभवः, १६. अवस्थान्तरावेशः इत्यनुभावाः षोडश मुखे (१६+)

१. परिदेवनं २.अनुशोचनं, ३. गुणसंस्मरणं, ४. स्वभावस्य गर्हणं१, ५. विलापः, ६. प्रलापः, ७. प्रविलापः, ८. विप्रलापः, ९. आत्मनिन्दा, १०. हृदयोपलम्भः,२ ११. जीवितजुगुप्सा, १२. दैवाधिकारः, १३. शोकोन्मादः, १४. दुःखसम्भेदः, १५. सहायापेक्षणं, १६. सहायानुनीतिरित्यनुभावाः षोडश प्रतिमुखे + (१६+१६=३२)

१. सुहृत्परिवेदनं, २. सुहृत्प्रलापः, ३. परिजनानुशोचनं, ४. परिजनाक्रन्दः, ५. गुरूपरोधनं,३ ६. गुरुजनविलापः, ७. सहायाक्रन्दनं, ८. सहायाभ्युपपत्तिः, ९. सहायाभाषणं, १०. सहायाप्रश्नः, ११. साहसाग्रहः, १२. मरणाभिनिवेशः, १३. सहायाभ्यर्थनं, १४. सहायशिक्षा, १५. मरणोपक्रमः, १६. मरणाध्यवसाय इत्यनुभावाः षोडश गर्भे (३२+१६=४८)

१. समाश्वासनम्, २. उद्धर्षणं, ३. प्रतिबोधनम्, ४. उत्साहनम्, ५. अनुकम्पनं, ६. विस्त्रम्भणं, ७. प्रलोभनम्, ८. उपपत्तिदर्शनं, ९. प्रश्वासनं, १०. सत्यापनं, ११. प्रत्यायनम्४, १२. आप्यायनं, १३. तन्मतव्यापेक्षः, १४. भयोपदर्शनम्, १५. उपालम्भनं, १६. प्रतिकोप इत्यनुभावाः, षोडश विमर्शे, (४८+१६=६४)।

१. स्वभाग्यस्य इति पृ. १४९०, २. उदाहरणानि नोपलभ्यन्ते पृ. १४९१, ३. गरूपरोदनम् इति पृ. १४९४, ४. प्रत्यानयनम् पृ. १५०१

Showing 331 to 340 of 915 verses