अभ्यवहारे सङ्करो यथा—(माघ. ५.२८)
सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिविसप्रसूनाः।
सैन्या श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन् वननिम्नगानाम्॥ ७७॥
अभ्यवहारे सम्पूर्णत्वं यथा—(कुसं. ८.६४)
पश्य पार्वति! नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्स्थलम्।
लक्ष्यते द्विरदभोगदूषितं सम्प्रसन्नमिव मानसं सरः॥ ७८॥
अभ्यवहारे सम्यक्त्वं यथा—
शिरसि द्विषतां निवेश्य पादं यदनायासितकार्मुकं नरेन्द्रः।
इदमेकपदेन भुज्यते श्रीरतिदारिद्रयमिदं तदाश्रितानाम्॥ ७९॥
४. अनुभवे संक्षेपो यथा—(माघ. २.८५)