उन्नद्धस्तनकुम्भकुड्मलगुरुग्रासावभुग्नस्य ते मध्यस्य त्रिवलीतरङ्गकजुषो भङ्गः प्रिये मा च भूत्॥ ७३॥
कौटिल्ये सम्पूर्णत्वं यथा—(माघ. १०.५७)
कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाग्रैः।
अक्रियन्त कठिनेषु कथञ्चित् कामिनीकुचतटेषु पदानि॥ ७४॥
कौटिल्ये सम्यकत्वं यथा—(कुसं. ८.४९)
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरतापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ ७५॥
३. अभ्यवहारे संक्षेपो यथा—(किराता. १०.२२)
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुरसोपभोगहृष्टा।
परभृतयुवतिः स्वनं विचक्रे नवनवयोजितकण्ठरागरम्यम्॥ ७६॥