मृदु व्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया॥ ८०॥
अनुभवे सङ्कीर्णत्वं यथा—(माघ. ५.३९)
संसर्पिभिः पयसि गैरिकरेणुजालैरम्भोजरेणु रजसाङ्गनिषङ्गिणा च।
कामोपभोगमनुभूय सरिन्महेभावन्योन्यवस्तुपरिवर्तमिव व्यधत्त॥ ८१॥
अनुभवे सम्पूर्णत्वं यथा—(रघु. १९.२८)
दर्पणेषु परिभोगदर्शिनीं नर्मपूर्वमनुपृष्ठसंश्रयः।
छायया स्मितमनोज्ञया वधूं ह्रिनिमीलितमुखीं चकार सः॥ ८२॥
अनुभवे सम्यक्त्वं यथा—(रघु. १९.३९)
कार्तिके/कीषु सवितानहर्म्यभाग् यामिनीषु ललिताङ्गनासखः।