अन्वभुङ्क्त सुरतश्रमापहा मेघमुक्तविशदाश्च चन्द्रिकाः॥ ८३॥
साक्षादुपसर्गयोगे संक्षेपार्थो यथा—
शिरस्यहो जाम्बवतीकरग्रहः प्रकारसम्भोगसुखामृतद्रवे।
मया विसृष्टानुभवत्ववारिता विधूननादुर्ललितोत्सवङ्गमाः॥ ८४॥
सङ्करार्थो यथा—(किराता. ७.२६)
संक्षोभक्षमगहनामथोपगङ्गं विभ्राणां ज्वलितमणीनि सैकतानि।
अध्यूषुश्च्युतकुसुमाचितां सहायाः वृत्रारेरविरलशाद्वलां धरित्रीम्॥ ८५॥
सम्पूर्णतार्थो यथा—(मेघ. ९५)
वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः क्रीडायोगश्चिरपरिचितं त्याजितो दैवगत्या।
सम्भोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम्॥ ८६॥