सम्यक्त्वार्थो यथा—(किराता. ९.७८)
गतवति नखरेखालक्ष्यमातङ्गरागे समददयितपीताताम्रबिम्बाधरोष्ठ्याः।
विरहविधुरमिष्टा सत्सखीवाङ्गनाया हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः॥ ८७॥
अधिकारार्थयोगो सम्बन्धार्थो यथा—
अकार्योच्चारणे मूकाः पैशुन्यपरिपन्थिनि।
विनिवृत्तानृतप्रेमां सत्यसम्भोगलालिताम्॥ ८८॥
किमव्याप्तं लक्ष्म्या किमशुचि किमाश्चर्यरहितं किमस्वच्छं वाब्धेः किमथ न हितं वास्य जगतः।
अहो नष्टौपम्या गुणकुसुमसम्भोगसुभगा भ्रमत्यन्या सिद्धा दिवि भुवि च कीर्तिर्जलनिधेः॥ ८९॥