५. अप्रवृत्ताप्रवृत्तं यथा—
कर्तव्यं न निवारितं गुरुजनात् प्रास्थानिकं लज्जया शून्यं मन्युनिरोधमन्थरगिरा संवर्गिका बान्धवाः।
पान्थेन प्रियविप्रवासविधुरां दृष्टवां पुरः प्रेयसी— मुद्बाष्पेण दिशो निवृत्तिशकुनप्रत्याशया वीक्षिताः॥ ९४॥
नायिकायाः प्रेयसा सह प्रस्थानसीमान्तात् प्रियानुगमः, सोऽपि पञ्चधा—सह, अग्रतः, पश्चात्, दूरतः, अन्तिक इति। तेषु— सहानुगमो यथा—(अमरु. १०)
याताः किं न मिलन्ति सुन्दरि! पुनश्चिन्तेति नास्मासु ते कार्या दूरमनुद्रुता हि कथयत्य़ेवं मुहुः प्रेयसि।
तन्व्या मन्थरतारकेण बहुशः पीताश्रुणा चक्षुषा दृष्टा तं हसितं न किन्तु मरणोत्साहस्तया सूचितः॥ ९५॥
तिष्ठेत्युक्तः प्रवसन् दयितानयनेन कृष्णशारेण।
दयितः पुरतो यातं वामं वलता मृगेणेव॥ ९६॥