प्रस्थितस्य सम्भाषणाश्लेषादिपूर्वकः प्रियजनपरित्यागः प्रियाप्रश्नः। सोऽपि पञ्चधा — 'सम्भाषणकृतः, आलिङ्गनकृतः, अवधिप्रदानकृतः, अवधियाचनकृतः, प्रियानुशासनकृतश्चे' ति। तेषु—
आउच्छंतम्मि पिए पुरत्तो सउण—पिसुणिआपेअं।
रुण्णं ससज्झसोसरिअवाहधारं कुलवहए॥ १००॥
(आपृच्छमाने प्रिये पुरस्तात् शकुनपिशुनितापेतम्।
रुदितं ससाध्वसापसृतबाष्पधारं कुलवध्वा॥)
२. आलिङ्गनकृतो यथा—(गास. ७८६ वे.)
आउच्छणोवऊहण—कंठसमोसरिअ—वाहुलइआए।
वलआइ पहिअचलणे वहुए णिअला विअ पडंति॥ १०१॥
(आपृच्छनोपगूहन—कण्ठ—समपसृत—बाहुलतिकायाः।