वलयानि पथिकचरणे वध्वाः निगडा इव पतन्ति॥)
जाव अ ण देइ ओहिं उवऊढं जाव णेअ सडिलेइ।
मरणे ण पुण्णअं पुणो किं माए ताव गरुअविओ अप्पा॥ १०२॥
(यावच्च न ददाति अवधिमुपगूढं यावन्नैव श्लथयति।
मरणे न पुनः किं मातः तावद् गुरूकृत आत्मा॥)
४. अवधियाचनकृतो यथा—(सक. ७२६)
मुग्धे! प्रेषय यामि यान्ति पथिकाः कालोऽवधेः कथ्यता— मुद्विग्न किमकाण्ड एव भवती तूष्णीं किमेवं स्थिता।
पूर्वोक्तोपरतां प्रियेण दयितामाश्लिष्य तत् तत् कृतं दत्तो येन समस्तपान्थविरहप्राणान्तको डिण्डिमः॥ १०३॥