आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि! गच्छाम्यहं स्वल्पैरेव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः।
इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धयानुष्ठितं येनाकुण्ठसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः॥ १०४॥
प्रेयसि गते नायिकादीनां गृहागमनं प्रतिनिवृत्तिः। सापि पञ्चधा—'गृहात्, अलिन्दतः, अङ्गणतः, उपवनात्, जलाशयत' इति।
मया बद्धा वेणी निवसितमशुक्लं च वसनं श्रुताः शोचन्तीनां परिजनसखीनामपि गिरः।
निवृत्तास्ते दृष्टा गतमनुगता येऽस्य सुहृद— स्तथाप्येते प्राणा दयितमनुयाता न कृपणाः॥ १०५॥
सौख्ये गते प्रवसता दयितेन सार्धं नेत्रद्वये दयितमार्गगमान्निवृत्ते।
व्रीडावती बत कृता हतजीवितेन निर्याय यन्न पदमात्रमपि प्रयातम्॥ १०६॥