धीरं धरिअं पि गअं दूरवलग्गो वि पिअ णिओ मअराओ।
लहइ अ पेम्मंधंमं किलम्मइ पअ/डइ वेल/वविसे हिअअं॥ ८०॥
(धैर्यं धृतमपि गतं दूरावलग्नोऽपि प्रिय! निजो मदरागः।
लभते च प्रेमान्ध्यं क्लाम्यति पतति वञ्चनाविषे हृदयम्॥)
२०. व्यलीकानुसन्धानात् क्रोधोद्भेद आवेगो यथा—
तोधा लज्जापणआ भणइ विअक्खणविअण्णदिट्ठिओ।
हासविसेस-मंतुगरिइकअ-कंठध्द-परिक्खलंत-विसमुल्लावा॥ ८१॥
(ततः सा लज्जाप्रणया भणति विचक्षणविषण्णद्ृष्टया।
हासविशेषमन्युगुरूकृतकण्ठार्धपरिस्खलद्विषमोल्लापा॥)