तं चिअ अ सोहइ माणो समुहं जाव पणअं ण खंडेति पिआ।
खलिओ अ पणअपसरो पच्छा माणवइआ णिअंतअओ॥ ७७॥
(तावदेव च शोभते मानः सम्मुखं यावत् प्रणयं न खण्डयति प्रिया।
स्खलितश्च णयप्रसरः पश्चात् मानवत्या नियन्त्रणकः॥)
वरं भ्रूभङ्गस्ते प्रकटितगुरुक्रोधविभवाः वरं सोपालम्भाः प्रणयविमुखा गद्गदगिरः।
वरं मानारोपप्रसभजनितोऽनादरविधि— र्निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥ ७८॥
१९. प्रियापराधजधैर्यध्वंसः क्षोभो यथा—
भङ्गं भ्रुवोः श्वसितमानदमश्रु चक्षुः खेदं मनस्तनुलता च मलीमसत्वम्।
नैवावगाहितुमलं सुतनोस्तदेष मन्येऽनुपायपरवत्त्वमुपैति कोपः॥ ७९॥