भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 311 to 320 of 1475 verses
यातुं निश्चितचेतसि प्रियतमे सर्वे सह प्रस्थिता गन्तव्ये सति जीवित! प्रियसुहृत्सार्थः किमुत्सृज्यते॥ ८८॥

५. भविष्यत्सामीप्यो यथा—(गास. ८३१ वै.)

कण्णे पडिअं हिअए पडिअं चिअ ओ मए अह/भव्वाए।

जामि त्ति तुज्झ वअणं किं व ण सहिअं पवासस्स॥ ८९॥

(कर्णे पतितं हृदये/यं पतितमेव ओ मया अभव्यया।

यामीति तव वचनं किं वा न सोढं प्रवासस्य॥)

(३. प्रियप्रस्थानम् — ५)

नायकस्य गेहाद् विनिर्गमः प्रियप्रस्थानम्। तदपि पञ्चधा—'प्रवृत्तम्, अप्रवृत्तं, प्रवृत्ताप्रवृत्तम्, अप्रवृत्तप्रवृत्तम्, अप्रवृत्ताप्रवृत्तं' चेति। तेषु—

१. प्रवृत्तं यथा—(अमरु. ८५)

दृष्टः कातरनेत्रयाऽतिसुचिरं बद‍्ध्वाञ्जलिं याचितः पश्चादंशुकपल्लवे च विधृतो निर्व्याजमालिङ्गितः।

Showing 311 to 320 of 1475 verses