पुच्छंती भमइ घरं घरेण पिअ—विरह—सहिरीओ॥ ८६॥
(भविष्यत्पथिकस्य जाया आपृच्छन जीवधारणारहस्यम्।
पृच्छन्ती भ्रमती गृहं गृहेण प्रियविरहसहनशीलाः॥)
३. नित्यप्रवृत्तो यथा—(गास. ३.६१)
घरिणि-घण-त्थण-पेल्लण-सुहेल्लि-पडिअस्स होंत-पहिअस्स।
अवसउणंगारअवार-विट्ठि-दिअहा सुहावेंती॥ ८७॥
(गृहिणीघनस्तनपीडनसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाऽङ्गारकवार—विष्टिदिवसास्सुखयन्ति ॥)
४. भूतसामीप्यो यथा—(अमरु. ३५)
प्रस्थानं वलयैः कृतं प्रियसखैरस्त्रैरजस्त्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः।