वहति च वरारोहा धन्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ ७९॥
मध्यमाश्रयो यथा—(सेब. ११.६७)
णवरि अ पसारिअंगी रअभरिउप्पहपइण्णवेणीबंधा।
पडिआ उरसंदाणिअ—महिअल—वक्कलइअत्थणी जणअसुआ॥ ८०॥
(अनन्तरं च प्रसारिताङ्गी रजो—भृतोत्पथप्रकीर्णवेणीबन्धा।
पतिता उरःसन्दानितमहीतलवक्रीकृतस्तनी जनकसुता॥)
प्रगल्भाश्रयो यथा—(कादकसा. ७.१८)
तदाकार्ण्य विहायैव वैक्लब्यं स्त्रीजनोचितम्।
लब्धसंज्ञा महाश्वेता मदलेखां च सावदत्॥ ८१॥
३. चेष्टाकृतोऽपि त्रिधैव उद्धतादिभेदात्। तत्र१ —