प्रत्यग्रैरपि विप्रियैः समुचितां नालम्बते वामतां प्रेम प्रत्यहमातनोति विविधैः स्वादूत्तरैः चेष्टते।
सोच्छ्वासा दिवसेऽवसीदति निशानाथे पुनर्वेपते बाला श्रोत्रपथं गते परिजनात् पत्युः प्रयाणध्वनौ॥ ८२॥
४. श्वस्तनी यथा—(गास. १.४६, वल. ३६५)
कल्लं किर खरहिअओ पवसिहिइ पिओ त्ति सुव्वइ जणम्मि।
तह वड्ढ भअवइ णिसे जह से कल्लं चिअ ण होइ॥ ८३॥
(कल्यं किल खरहृदयः प्रवत्स्यति प्रिय इति श्रूयते जने।
तथा वर्धस्व भगवति निशे यथा तस्य कल्यमेव न भवति॥)
होंत—पिअ—विरह—दूसह—संतावुप्फसिअ—वअण—सोहाओ।