चंदमुहिओ त्ति सत्था जाआओ पिआओ पच्चूसे॥ ८४॥
(भविष्यत्—प्रिय—विरह—दुस्सह—सन्तापोन्मृष्ट—वदन—शोभाः।
चन्द्रमुख्य इति सार्था जाताः प्रियाः प्रत्यूषे॥)
नायकस्य प्रियापरित्यागोद्योगः प्रवासारम्भः। सोऽपि पञ्चधा—'प्रवृत्तोपरतः, प्रवृत्ताविरतः, नित्यप्रवृत्तः, भूतसामीप्यः, भविष्यत्सामीप्यश्च। तेषु
कामे केलिरसानुबन्धविधुरे जाते तदोपक्रमे पक्ष्माग्रग्रथिताश्रुबिन्दुजडया दृष्टया निरीक्ष्य क्षणम्।
श्वो गन्ता नियमेन किं प्रिय इति प्राणेशया व्याहृते यूनः सादरकल्पितोऽपि सहसा भग्नः प्रयाणोद्यमः॥ ८५॥
२. प्रवृत्ताविरतो यथा—(गास. १.४७)
होंतपहिअस्स जाआ आउच्छण—जीअधारणहस्सं।