पथिकगृहिणीः न तथा तापयति तीव्रोऽपि मध्याह्नः॥)
मण्णो दड्ढं दड्ढं व हिअअं एवि तुह पसाएण।
दूरुण्णअ—घण—सामलिआदिसा हि सिग्घपरिणामा॥ ११५॥
(मन्ये दग्धं गद्धमिव हृदयं हे अपि तव प्रसादेन।
दूरोन्नत—घन—श्यामलिता दिशा हि शीघ्रपरिणामाः॥)
७. उल्लेखवान् यथा—(सूमु. २४)
अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि! निरन्नया तदधुना किञ्चिन्मुखे दीयताम्।
इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कवलो धौतश्च धाराश्रुभिः॥ ११६॥