प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात्।
स निनाय नितान्तवत्सलः प्रतिगृह्योचितमङ्कमङगनाम्॥ १११॥
तो अगणिओवएसा गओ/आवणिअत्तितजीअवि/विअमुहिज्जंती।
तिअडाए जणअतणआ सहिसब्भावसरिसं उरम्मि णिसण्णा॥ ११२॥
(ततः अगणितोपदेशा गतापनिवर्तितजीवितमुद्वहन्ती।
त्रिजटायाः जनकतनया सखीसद्भावसदृशमुरसि निषण्णा॥)
१४. बाष्पमोक्षो यथा—(रघु. १४.६८)
तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते।
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः॥ ११३॥