तीसे मज्झपएसो थणजहणकरालिओ ण पावइ वसुहं॥ ११६॥
(सर्वाङ्गनिषण्णाया निश्शेषक्षपितत्रिवलिभङ्गनिरायतः।
तस्याः मध्यप्रदेशः स्तनजघनकरालितः न प्राप्नोति वसुधाम्॥)
१६. अवस्थान्तरावेशो यथा—(सेब. ११.१०६)
तो अड्डिअपेलिबंधणभंगुग्गमविसमकेसवच्छत्तरणे।
पडिआ रामोरत्तल—सअण—णिरासहिअआ महिअलुच्छिंगे॥ ११७॥
(ततः अस्थितवेणीबन्धनभङ्गोद्गमविषमकेशप्रत्यास्तरणे।
पतिता रामोरःस्थलशयननिराशहृदया महीतलोत्सङ्गे॥)
तो मुच्छिउठिआए किं एअंति गअणे दिसासु अ समअं।