सुण्णपरिघोलिरत्थं जाअं मूढपरिदेविअं तीए मुहं॥ ११८॥
(ततः मूर्छितोत्थितायाः किमेतदिति गगने दिशासु च समकम्।
शून्यपरिघूर्णनशीलाक्षं जातं मूढपरिदेवितं तस्या मुखम्॥)
(२. प्रतिमुखसन्धौ करुणस्य विभावादयः -१६)
१. प्रतिमुखसन्धौ परिदेवनं यथा—(रघु. ८.६२)
कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति।
अलकाभरणं कथं नु तत् तव नेष्यामि निवापमाल्यताम्॥ ११९॥
क्रियतां कथमन्त्यमण्डनं परलोकोपगतस्य ते मया।
सममेव गतोऽस्यतर्किता गतिमङ्गेन च जीवितेन च॥ १२०॥