प्रथम एव यामार्धे कुड्य़ं रेखाभिश्चित्रितम्॥)
निःश्श्वासेनाधरकिसलयक्लेशिना विक्षिपन्ती शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम्।
मत्सम्भोगः कथमुपनयेत् स्वप्नजोऽपीति निद्रा— माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम्॥ १२७॥
१६. अधीरा यथा—(गास. ८३६वे.)
विज्झावेइ पईवं अब्भुट्ठतीए पहिअजाआए।
पिअअम—विओअ—दीहर—णीसास—रि़ञ्छोली॥ १२८॥
(निर्वापयति प्रदीपमभ्युत्तिष्ठन्त्याः पथिकजायायाः।
प्रियतमवियोगदीर्घनिस्सहनिःश्वासपङ्क्तिः॥)