श्वासालिङ्गनधूसरेण सुमुखी बिम्बाधरेणामुना पर्यन्तारुणतां दृशोर्विदधती बाष्पैरविच्छेदिभिः।
क्षामक्षामकपोलमाननमनुव्यालम्बिलोलालका गात्रैरुज्झितभूषणैरियमहो धत्ते नवं मण्डनम्॥ १२४॥
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियायाः निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम्।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा— दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति॥ १२५॥
१५. मुग्धा यथा—(गास. ३.८, वल. ३७७)
अज्जं गओ—त्ति अज्जं गओ—त्ति अज्जं गओ—त्ति गणरीए।
पढमच्चिअ जामद्धे कुड्डो रेहाहिं चित्तलिओ॥ १२६॥
(उद्य गत इत्यद्य गत इति गणनशीलया।