रोषागम-प्रतिवेल्लित-विषम-विरज्यमानलोचनं तस्या मुखम्॥)
१०. अनाविर्भूतलक्षणो गूढः, स यथा—(गास. ८६९वे.)
साहिप्पंति ण कस्स वि रोत्तूण णेअ पाअडिज्जंति।
माणविआरा कुलपा/बालिआएँ हिअए विलावेंति॥ १००॥
(साधयिष्यन्ति तस्या अपि रुद्ध्वा नैव पातयिष्यन्ति।
मानविकाराः कुलपा/बालिकाया हृदये विलीयन्ते॥)
११. भूतप्रभूतचिह्नश्चण्डः, स यथा—(गास. २.९२)
आअंबंतकओलं खलिअक्खरजंपिरिं फुरंतोट्ठिं।
मा च्छिवसु त्ति सरोसं समोसरंतिं पिअं भरिमो॥ १०१॥
(आताम्रान्तः-कपोलां स्खलिताक्षरजल्पनशीलां स्फुरदोष्ठीम्।