मा स्पृशेति सरोषमपसर्पन्तीं प्रियां स्मरामः॥)
१२. तद्विपरीतो मृदुः, स यथा—
भिउडी ण कआ कडुअं ण आलविअं, अहरं ण पम्मुठ्ठं।
उवऊहिआ ण रुण्णा एएण अ जाणिमो माणं॥ १०२॥
(भ्रुकुटी न कृता, कटुकं नालपितं, अधरो न प्रमृष्टः।
उपगूहिता न रुदिता एतेनापि जानीमो मानम्॥)
१३. आविष्कृतविकृतानेकरूप उद्भटः, स यथा—
क्षणविकसितो दीर्घश्वासैः क्षणं मुकुलीकृतः कृतकहसितैर्व्यक्तो मौनप्रतिक्रियया क्षणम्।
क्षणविकसितो नर्मालापैरिति क्रमसूचित— स्थगितविषमो मुग्धे! मानः कदर्थयतीव माम्॥ १०३॥
१४. धैर्यान्तर्हितगम्भीराभोगो मसृणः, यथा—