अणुणेज्जा जंपंतो जइ णवरं वम्महो मिअंको व विओ॥ १०७॥
(तन्नास्ति यत् सखीजनो न भणेत् प्रत्यक्षमन्युदूनहृदयम्।
अनुनयेत् जल्पन् यदि केवलं मन्मथो मृगाङ्क इव प्रियः॥)*
१९. प्रकर्षभङ्गमात्रोपशान्तशालिभिः प्रयत्नैरनुन्मीलनीयो याप्यः, स यथा—
स्मृतिस्वप्नावाप्तत्वदखिलविलासव्यसनिनो न मे दूरस्थायां त्वयि बलवदुत्कण्ठि हृदयम्।
परं विज्ञातैवं तव तरुणि! चण्डत्वमधुना श्रुते वा स्वप्ने वा यदि भवति वामैव भवति॥ १०८॥
२०. सर्वप्रयत्नानामगोचरोऽसाध्यः, स यथा—(अमरु. ६०)
लाक्षालक्ष्म ललाटपटट्मभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसोः क्रीडातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः॥ १०९॥
NOTES pg=1339! * अतः परं 'कृच्छसाध्यः' नोपलभ्यते