भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 491 to 500 of 1822 verses
अणुणेज्जा जंपंतो जइ णवरं वम्महो मिअंको व विओ॥ १०७॥

(तन्नास्ति यत् सखीजनो न भणेत् प्रत्यक्षमन्युदूनहृदयम्।

अनुनयेत् जल्पन् यदि केवलं मन्मथो मृगाङ्क इव प्रियः॥)*

१९. प्रकर्षभङ्गमात्रोपशान्तशालिभिः प्रयत्‍नैरनुन्मीलनीयो याप्यः, स यथा—

स्मृतिस्वप्‍नावाप्‍तत्वदखिलविलासव्यसनिनो न मे दूरस्थायां त्वयि बलवदुत्कण्ठि हृदयम्।

परं विज्ञातैवं तव तरुणि! चण्डत्वमधुना श्रुते वा स्वप्‍ने वा यदि भवति वामैव भवति॥ १०८॥

२०. सर्वप्रयत्‍नानामगोचरोऽसाध्यः, स यथा—(अमरु. ६०)

लाक्षालक्ष्म ललाटपटट्मभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।

दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसोः क्रीडातामरसोदरे मृगदृशः श्वासाः समाप्‍तिं गताः॥ १०९॥

NOTES pg=1339! * अतः परं 'कृच्छसाध्यः' नोपलभ्यते

Showing 491 to 500 of 1822 verses