२१. मनःपर्युषितडम्बरः पुराणः, स यथा-(गास. ७०९वे.)
ण वि तह तक्खण-सुअ-मंतुदुक्खविअणाउराओँ वि रुअंति।
जह दिट्ठम्मि पिअअमे अणुणिज्जंतीओँ तरुणीओ॥ ११०॥
(नापि तथा तत्क्षणश्रुतमन्युदुःखवेदनातुरा विरुदन्ति।
यथा द्ष्टे प्रियतमे अनुनीयमानास्तरुण्यः॥)
२२. मानसो मनसोऽवस्त्रस्तवीर्यो जीर्णः, स यथा—
विलीनो विस्रम्भः सपदि तदपि प्रेम गलितं च्युताश्चित्राकाराः प्रणयसुभगास्ता अपि गिरः।
प्रियस्यैवं तत्तद् विनयबहिरङ्गव्यवसितं किमन्यद् दुःखानां हृदयनगरीचत्वरमसि॥ १११॥
२३. प्रशम्योद्भूतः पुनर्नवः, स यथा—
चतुरचटुभिर्गाढाश्लेषैर्हठात् परिचुम्बनै— रलककलनैर्वारं वारं गतोऽप्यतिमन्दताम्।