एमेअ अकअ/मंदपुण्णा अप्पत्तमणोरहा विवज्जिस्सं।
जणवावो वि ण जाओ तेण समं हलिअउत्तेण॥ १४१॥
(एवमेव अकृतपुण्या अप्राप्तमनोरथा विपत्स्ये।
जनवादोऽपि न जातः, तेन समं हलिकपुत्रेण॥)
(४५. (सं(प्र)योगसंविधानम्)
स्वयंकृत—दूतकृत—गुरुकृत—सहायकृत—योगात् संयोगसंविधानप्रपञ्चः। तत्र— स्वयंकृतेषु नायककृतं नायिकाकृतं च। तेषु—
१. नायककृतं यथा—(कुसं. ५.८४)
इतो गमिष्याम्यथवेति वादिनी चचाल सा च स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥ १४२॥
२. नायिकाकृतं यथा—(कादकसा. ८.८०)