११. कार्यावधानं यथा—(मामा. ६.३)
मालत्याः प्रथमावलोकनदिनादारभ्य विस्तारिणो भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम्।
अस्यान्तः खलु सर्वथास्य मदनायासस्य सर्वस्य मे कल्याणं विदधातु वा भगवतीनीतिर्विपर्येतु वा॥ १३६॥
१२. पात्रावधानं यथा—(मामा. ३.४ इयं हि मम)
आविर्भवन्ती प्रथमं प्रियायाः सो शच्छ्वासमन्तःकरणं करोति।
सन्तापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव॥ १३७॥
१३. नायिकावधानं यथा—(गास. २.६५, ६.४९)
फलहीपाडअ/वाहणपुण्णाहि/हमंगल लंगले कुणंतीए।
वहुआए/असईएँ मणोरहगब्भिणीए हत्था थरहरंति॥ १३८॥
(कार्पासीक्षेत्रकर्षणपुण्याहमङ्गलं लाङ्गले कुर्वत्याः।